(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.7. अध्यायः 007
Mahabharata - Karna Parva - Chapter Topics
अश्वत्थामवचनाद्दुर्योधनेन सैनापत्येऽभिषिक्तेन कर्णेन रणाय सेनानियोजनम्॥ 1 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-7-0x(4848)(55246)
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत।
कृते च मोघसंकल्पे द्रोणपुत्रे महारथे॥ 8-7-1(55247)
द्रवमाणे महाराज कौरवाणां बलार्णवे।
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्वातृभिर्वृतः॥ 8-7-2(55248)
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ।
विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत्॥ 8-7-3(55249)
स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः।
युद्धा च सुचिरं कालं पाण्डवैः सह भारत॥ 8-7-4(55250)
लब्धलक्षैः परैर्हष्टैर्व्यायच्छद्भिश्चिरं तदा।
सन्ध्याकालं समासाद्य प्रत्याहारमकारयत्॥ 8-7-5(55251)
`निवेश्य बलवद्वोरं क्षुत्पिपासाबलैर्युतम्।
श्रमेण महता युक्तं तथा द्रोणवधेन च॥ 8-7-6(55252)
दीनरूपा रणे कर्म कृत्वा घोरं च शर्वरीम्।
विशं प्राप्य सा सेना विश्रम्य मुदिताऽभवत्'॥ 8-7-7(55253)
कृत्वाऽवहारं सैन्यानां प्रविश्य शिबिरं स्वकम्।
कुरवः सहिता मन्त्रं मन्त्रयाञ्चक्रिरे मिथः॥ 8-7-8(55254)
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च।
वरासनेषूपविष्टाः सुखशय्यास्विवामराः॥ 8-7-9(55255)
ततो दुर्योधनो राजा साम्ना परमवल्गुना।
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत॥ 8-7-10(55256)
मतं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत मा चिरम्।
एवङ्गतेन यत्कार्यं भवेत्कार्यतरं नृपाः॥ 8-7-11(55257)
सञ्जय उवाच। 8-7-12x(4849)
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः।
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा॥ 8-7-12(55258)
तेषां निशाम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम्।
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम्।
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे॥ 8-7-13(55259)
रागो योगस्तथा दाक्ष्यां नयश्चेत्यर्थसाधकाः।
उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः॥ 8-7-14(55260)
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः।
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः॥ 8-7-15(55261)
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति।
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते॥ 8-7-16(55262)
ते वयं प्रवरं नॄणां सर्वैर्योधगुणैर्युतम्।
कर्णमेवाभिषेभ्यामः सैनापत्येन भारत॥ 8-7-17(55263)
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून्॥ 8-7-18(55264)
एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः।
वैवस्वत इवासह्यः शक्तो जेतुं रणे निपून्॥ 8-7-19(55265)
एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः।
`दुर्योधनो महाराज भृशं प्रीतमनास्तदा'॥ 8-7-20(55266)
आशां बहुमतीं चक्रे वर्णं प्रति स वै तदा।
हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान्॥ 8-7-21(55267)
तामाशां हृदये कृत्वा समाश्वस्य च भारत।
[ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद्वचः।
प्रीतिसत्कारसंयुक्तं तथ्यमात्महितं शूभम्॥] 8-7-22(55268)
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः॥ 8-7-23(55269)
`प्रियसत्कारसंयुक्तं तथ्यमात्महिते रतम्'।
दुर्योधनो महाराज राधेयमिदमब्रवीत्॥ 8-7-24(55270)
कर्ण जानामि ते वीर्यं सौहृदं परमं मयि।
तथाऽपि त्वां महाबाहो प्रवक्ष्यामि हितं वचः॥ 8-7-25(55271)
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते।
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः॥ 8-7-26(55272)
भीष्मद्रोणावतिरथौ हतौ सेनापती मम।
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः॥ 8-7-27(55273)
वृद्धो च तौ महेष्वासौ सापेक्षो च धनञ्जये।
मानितौ च मया वीरौ राधेय वचनात्तव॥ 8-7-28(55274)
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे।
रक्षितास्तात भीष्मेण दिवसानि दशैव तु॥ 8-7-29(55275)
न्यस्तशस्त्रे तु भवति हतो भीष्मः पितामहः।
शिखण्डिनं पुरुस्कृत्य फल्गुनेन महाहवे॥ 8-7-30(55276)
हते तस्मिन्महेष्वासे शरतल्पगते तथा।
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः॥ 8-7-31(55277)
तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः।
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम्॥ 8-7-32(55278)
निहताभ्यां प्रधानाभ्यां ताभ्यामतुलविक्रम।
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन्॥ 8-7-33(55279)
भवानेव तु नः शक्तो विजयाय न संशयः।
पूर्वं मध्ये च पश्चाश्च तथैव विहितं हितम्॥ 8-7-34(55280)
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोऽढुमर्हति।
अभिषेचय सैनान्ये स्वयमात्मानमात्मना॥ 8-7-35(55281)
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः।
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै॥ 8-7-36(55282)
जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव।
अवस्थितं रमे दृष्ट्वा पाण्डवास्त्वां महारथाः।
द्रविष्यन्ति च पाञ्चाला विष्णुं दृष्ट्वेव दानवाः॥ 8-7-37(55283)
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम्॥ 8-7-38(55284)
भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः।
द्रविष्यन्ति सहामात्याः पाञ्चालाः सृञ्जयाश्च ह। 8-7-39(55285)
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा।
व्यपोहति तमस्तीव्रं तथा शत्रून्प्रतापय॥ 8-7-40(55286)
सञ्जय उवाच। 8-7-41x(4850)
एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह।
राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः।
हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः॥ 8-7-41(55287)
कर्ण उवाच। 8-7-42x(4851)
उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ।
जेष्यामि पाण्डवान्सर्वान्सपुत्रान्सजनार्दनान्॥ 8-7-42(55288)
सेनापतिर्भविष्यामि तवाहं नात्र संशयः।
स्थिरो भव महाराज जितान्विद्वि च पाण्डवान्॥ 8-7-43(55289)
सञ्जय उवाच। 8-7-44x(4852)
एवमुक्तो महाराज ततो दुर्याधनो नृपः।
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः॥ 8-7-44(55290)
सैनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः।
ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा॥ 8-7-45(55291)
दुर्योधनमुक्ता राजन्राजानो विजयैषिणः।
शातकुम्भमयैः कुम्भेर्माहेयैश्चाभिमन्त्रितैः॥ 8-7-46(55292)
तोयपूर्णैर्विषाणैश्च द्विपखङ्गमहर्षभैः।
मणिमुक्तायुतैश्चान्यैः पुण्यगन्धैस्तथौषधैः॥ 8-7-47(55293)
औदुम्बरे सुखासीनमासने क्षौमसंवृते।
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः॥ 8-7-48(55294)
ब्राह्मणः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः।
तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने॥ 8-7-49(55295)
ततोऽभिषिक्ते राजेन्द्र निष्कैर्गोभिर्धनेन च।
वाचयामास विप्राग्र्यान्राधेयः परवीरहा॥ 8-7-50(55296)
`स व्यरोचत राधेयः सूतमागधबन्दिभिः।
स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः॥ 8-7-51(55297)
ततः पुण्याहघोषेण वादित्रनिनदेन च।
जयशब्देन शूराणां तुमुलः सर्वतोऽभवत्॥ 8-7-52(55298)
जयेत्यूचुर्नृपाः सर्वे राधेयं तत्र सङ्गताः'॥ 8-7-53(55299)
जय पार्थान्सगोविन्दान्सानुगांस्तान्महामृधे।
इति तं बन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम्॥ 8-7-54(55300)
जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः।
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः॥ 8-7-55(55301)
न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः।
उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने॥ 8-7-56(55302)
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः।
आत्तवज्रस्य समरे महेन्द्रस्येव दानवाः॥ 8-7-57(55303)
`सञ्जय उवाच। 8-7-58x(4853)
स सत्कृतः स्तूयमानः सुहृद्गणवृतो रुषा।
कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम्॥ 8-7-58(55304)
दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह।
फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम्॥ 8-7-59(55305)
सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम्।
पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यमि॥ 8-7-60(55306)
नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिन्दम।
सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा॥ 8-7-61(55307)
अभिषिक्तस्तु राघेयः प्रभया सोऽमितप्रभः।
अत्यरिच्यत रूपेण दिवाकर इवापरः॥ 8-7-62(55308)
सैनापत्ये तु राधेयमभिषिच्य सुतस्तव।
अमन्यत तदात्मानं कृतार्थं कालचोदितः॥ 8-7-63(55309)
कर्णोऽपि राज्ञः संप्राप्य सैनापत्यमरिन्दमः।
योगमाज्ञापयामास सूर्यस्योदयनं प्रति॥ 8-7-64(55310)
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत।
देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये॥ ॥ 8-7-65(55311)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - Karna Parva - Chapter Footnotes
8-7-3 स्वबलम्प्रति विद्रुतं दृष्ट्वा॥ 8-7-5 लब्धलक्षैः प्राप्ताजयैः। व्यायच्छद्भिः यतमानैः। प्रत्याहारं प्रत्यक्हारम्। प्रत्यहारमिति वा पाठः॥ 8-7-9 पर्यङ्केष्वेव वरासनेषु ॥ 8-7-11 कार्यतरं आवश्यकतरं यत्कार्यं कर्तव्यं परं मतं सम्मतं तत् प्रब्रूत॥ 8-7-12 चेष्टाः शौर्याभिनयरूपाः भुजास्फालनाद्याः॥ 8-7-13 निशाम्य आलोच्य। वर्चसं छान्दसष्टच्॥ 8-7-14 रागः स्वामिभक्तिः। योगो देशकालादिसम्पत्तिः। दाक्ष्यं बलम्। नयो नीतिः॥ 8-7-16 सर्वार्थैः रागादिभिः सुनीतैः दैवमनुलोम्यतेऽनुकूलं क्रियते। न केवलं रागाद्यपेक्षया दैवस्य प्राबल्यमपितु दैवापेक्षयापि सुप्रणीता रागादयः प्रबला इत्यर्थः॥ 8-7-21 बहुमतीं वाहुल्यवतीं अतिशयितामिति यावत्॥ 8-7-22 शुभं वचः श्रुत्वा मनः समवस्थाप्य समाधायाब्रवीदिति द्वयोः सम्बन्धः॥ 8-7-27 ताभ्यां सकाशात् द्रविणवत्तरः बलवत्तरः॥ 8-7-34 विहितं त्वयेति शेषः॥ 8-7-35 सैनान्ये सेनानीत्ये॥ 8-7-46 शातकुम्भमयैः सौवर्णैर्माहेयैर्महीमयैश्च कुम्भैः॥ 8-7-47 विषाणैः द्विपस्य गजस्य दन्तमयैः पात्रैः। खङ्गस्य गण्डकस्य। महर्षभस्य गवयस्य च शृङ्गैः। विषाणं दन्तशृङ्गयोरिति विश्वः। द्विपखङ्गमहर्षभीयैरिति तद्धितलोप आर्षः॥ 8-7-56 शराणां दर्शनेपि नालं किमुत स्पर्शे इत्यर्थः॥ 8-7-7 सप्तमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.